________________
कृदन्तप्रक्रिया। नग्नादिम्यः सप्तभ्यस्तदन्तेभ्यश्चाव्यन्तेभ्यश्चव्यर्थवृत्तिभ्यः पराद्भुवः खिष्णुखुको स्याताम् । अनग्नो नग्नो भवतीति नग्नंभविष्णुः नग्नंभावुकः । तदन्ते सुनग्नंभविष्णुः सुनग्नंभावुकः इत्यादि ।
कृगः खनट् करणे ॥४१॥ नग्नादिसप्तकादच्च्यन्ताच्चव्यर्थवृत्तेः परात् कृगः करणे खनट् स्यात् । अनमो नमः क्रियतेऽनेनेति नग्नकरणं द्यूतम् । सुनग्नकरणम् । नान्नो गमः खड्डौ च विहायसंस्तु
. विहः ॥ ४२ ॥ नाम्नः पराद्गमेः खड्डुखाः स्युः विहायसो विहश्च । तुरंगः विहंगः । तुरगः विहंगः । तुरंगमः विहंगमः। .
शोकापनुदतुन्दपरिजस्तम्बरमकऐजपं प्रियालसहस्तिसूचके ॥४॥ एते चत्वार एषु चतुर्वर्थेषु निपात्याः।
दुहेर्छघः ॥४४॥ नाम्नः पराड्दुहेर्डेघः स्यात् । कामदुधा । ____भजो विण ॥४५॥ नाम्नः परागजो विण् स्यात् । अर्द्ध भजतीति
अर्द्धभाक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org