________________
भ्वादयः उभयपदिनः। १८७ उपाद्भूषासमवायप्रतियत्नविकारवा
क्याध्याहारे ॥ १६८॥ एष्वर्थेषु उपात्कृगः स्सट् स्यात् । कन्यामुपस्करोतीत्यादि ।
वेः कृगः शब्दे चानाशे ॥ १६९ ॥ कर्मण्यसति शब्दे वा कर्मणि सत्यनाशार्थाद्वि. पूर्वात्कृग आत्मनेपदमेव स्यात् । विकुर्वतेऽश्वाः । कोष्टा विकुरुते स्वरान् । (परानोः कृगः परस्मैपदमेव *) पराकरोति । हंग हरणे । हरति ४। अहार्षीत् ५। जहार जहर्थ जहिम ६ । हरते ४ । अहत ५। जहे जहिषे ६ । हृषीष्ट ७ । हगो गतताच्छील्ये आत्मनेपदमेव * ) पैतृकमश्वा अनुहरन्ते। पितुरनुहरते । एवं भंग भरणे धृग् धारणे भरति धरतीत्यादि । णींगू प्रापणे + नयति ४ अनैषीत् अनैष्टाम् अनैषुः ५। नियाय निनयिथ निनेथ । नयते ४ । अनेष्ट ५ । निन्ये निन्यिषे ६ ।
कर्तृस्थाऽमूर्ताप्यात् ॥ १७ ॥ कर्तृस्थममूर्त कर्म यस्य तस्मानिय आत्मनेपदमेव । श्रमं विनयते (पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये निय आत्मनेपदमेव * ) नयते विद्वान स्याद्वादे । अदुरुपसर्गेति णत्वे प्रणयति अन्तर्णयति । श्रिग सेवायाम् । श्रयति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org