SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया | अस्य ङपरे णौ इर्वा स्यात् । अजिम्रिपत्-अजिघ्रपत् । ( तिष्ठतेरिर्नित्यम् * ) अतिष्ठिपत् । सिध्यतेरज्ञाने ॥ १६ ॥ अज्ञानार्थस्य सिध्यतेर्णौ स्वरस्यात्स्यात् । अन्नं साधयति । सिध्यति तत्त्वं निश्चिनोति तं प्रयुङ्क्ते सेधयति तपः साधुम् । 1 २५१ णावज्ञाने गमुः ॥ १७ ॥ अज्ञानार्थयोरिणिकोर्गमुः स्यात् । गमयति ग्रामम् । अधिगमयति प्रियम् । ज्ञाने तु प्रत्याययति । रुहः पः ॥ १८ ॥ रुहेण पो वा स्यात् । रोपयति- रोहयति वा तरुम् । ( लियो नोऽन्तः स्नेहद्रवे वा ) घृतं विलीनयति विलाययति वा । लीली नोर्वा ॥ १९ ॥ अनयोर्यपि खलवर्जे क्विति च आद्वा स्यात् । लोलः ॥ २० ॥ लारूपस्य णौ स्नेहद्रवे गम्ये लोऽन्तो वा स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इति किम् । जटाभिरालापयते । पातेः ॥ २१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy