SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे अथ स्वरान्ताः स्त्रीलिङ्गाः ॥ आकारान्तः स्त्रीलिङ्गो गङ्गाशब्दः दीर्घड्याळ्यञ्जनात्सेः ॥ १ ॥ दीर्घडयावन्ताभ्यां व्यञ्जनाश्च परस्य सेर्लुक् स्यात् । गङ्गा । औता ॥ २ ॥ आवन्तस्य औता सह एत् स्यात् । गङ्गे । गङ्गाः । गङ्गाम् । गङ्गे शिसि पुंस्त्वाभावान्नत्वाभावेऽकारेण सह दीर्घ एव । गङ्गाः । . टौस्येत् ॥ ३ ॥ आंबन्तस्य टौसोः परयोरेत्वं स्यात् । गङ्गया । गङ्गाभ्याम् २ । गङ्गाभिः । आपो ङितां यै यास् यास् याम् ॥४॥ आबन्तात् परेषां ङितामेते आदेशाः स्युः । गङ्गायै । गङ्गायाः २ । हस्वापश्चेति आमो नामादेशे, गङ्गानाम् । गङ्गायाम् । गङ्गयोः २ | गङ्गासु । दापः संबोधने ॥ ५ ॥ आबन्तस्य सिना सह एत्स्यात् । हे गने । हे गङ्गे । हे गङ्गाः । नित्यदिदद्विखराम्बार्थस्य ह्रस्वः ॥ ६ ॥ नित्यं दैदासादयो येभ्यस्ते नित्यदितस्तेषां द्विस्वतम्बार्थानां च सिना सह ह्रस्वः स्यात् । For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy