SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्वरान्ताः पुंलिङ्गाः ३३ तुनस्तृच् । क्रोष्ट्रा, क्रोष्टुना । क्रोष्टुभ्याम् ३। क्रोष्ट्रे, क्रोष्टवे । क्रोष्टुः, क्रोष्टोः २ । क्रोष्ट्रोः क्रोष्ट्रोः २ । आमि तु नित्यत्वात्पूर्वं नामि स्वरादित्वाभावात्तृजभावः । क्रोष्टूनाम् । क्रोष्टर, क्रोष्टौ । क्रोष्टुषु । ऋकारान्तादयोऽप्रसिद्धाः । एकारान्तः अतिहे शब्दः । अतिहेः । स्वरादावयादेशः । अतिहयौ । संबोधनेऽदेतः स्यमोरिति सिलुकि । हे अतिहे । ऐकारान्तः सुरैशब्दः । आ रायो व्यञ्जने ॥ ५९ ॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आः स्यात् । सुराः । स्वरादावायादेशः । सुरायौ । ओकारान्तो गोशब्दः । ओत औघुटि ॥ ६० ॥ गौः । गावौ । गावः । आ अमासोऽता ॥ ६१ ॥ " अम्शसोरता सह ओत आः स्यात् । गाम् । । गावौ । गाः । गवा । गोभ्याम् । एदोद्भ्याम् ङसिङसोर, इति रत्वे । गोः २ । गवाम् । गोषु । एवं सुद्योप्रभृतयः । औकारान्तो ग्लौशब्दः । ग्लौः । ग्लावौ । हे ग्लौः । ग्लौभ्याम् । एवं सुनौप्रभृतयः । इति महोपाध्यायश्री कीर्त्ति विजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमकंबुप्रक्रियायां खरान्ताः पुंलिङ्गाः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy