________________
१०० हैमलघुप्रक्रियाव्याकरणे द्यर्था द्वितीयान्तैरवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैर्निरादयः क्लान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समस्यन्ते स तत्पुरुषः । प्रगतः प्रकृष्टो वाऽऽचार्यः प्राचार्यः। गौणस्य ङयावन्तस्यान्तस्थस्य ह्रस्वः। अतिक्रान्तः खट्वामतिखदः। अवक्रुष्टः कोकिलयाऽवकोकिलः। परिग्लानोऽध्ययनाय पर्यध्ययनः । निर्गतः कौशाम्ब्याः निष्कौशाम्बिः। (अव्ययं प्रवृद्धादिभिः समस्यते*) पुनःप्रवृद्धं बर्हिः।
ङस्युक्तं कृता ॥ ४१ ॥ . कृत्प्रत्ययविधायकसूत्रे डन्स्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समस्यते । कुम्भं करोतीति कुम्भकारः । कर्मणोऽण् इत्यण् । गतिकारकडस्युक्तानां कृदन्तैर्विभत्युत्पत्तेः प्रागेव समासः । (तृतीयोकं न वा*) मूलकेनोपदंशं मूलकोपदंशं भुते। पाश्वयोः पार्थाभ्यां वोपपीडं पार्थोपपीडं शेते । (यथायोगं द्वितीयाद्यन्तं नाम प्रथमान्तेन समस्यते स द्वितीयादितत्पुरुष इति वक्तव्यम्) धमप्राप्तः । मदपटुः । आत्मकृतम् । यूपदारु । गोहितम् । वृकभयम् । राजपुरुषः। पानशौण्डः । (सिंहाद्यैः पूजायां सप्तम्यन्तं समस्यते*) समरसिंहः भूमिवासवः । काकाद्यैः क्षेपे) तीर्थकाकः । तीर्थश्वा इत्यादि।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org