________________
कारकप्रक्रिया । ७९
वाऽभिनिविशः॥ ८॥ - अभिनिपूर्वस्य विश आधारः कर्म वा स्यात् । व्यवस्थितविभाषेयम् , तेन क्वचित्कर्मसंज्ञा क्वचिदा धारसंज्ञापि । ग्राममभिनिविशते । कल्याणे अभिनिविशते । (कालाध्वभावदेशं वा कर्म चाकर्मणाम्*) मासमास्ते । मास आस्यते । (क्रियाविशेषणाद्वितीया*) क्रियाव्ययविशेषणे इत्यस्य क्लीबत्वम् । स्तोकं पचति । सुखं स्थाता।
उत्कृष्टेऽनूपेन ॥ ९॥ उत्कृष्टार्थादनूपाभ्यां युक्ताद्गौणान्नानो द्वितीया भवति । अनुसिद्धसेनं कवयः। उपहेमचन्द्रं वैयाकरणाः । तेषु तौ उत्कृष्टौ इत्यर्थः। गौणात्समयानिकषाहाधिगन्तरान्तरेणा- तियेनतेनैर्द्वितीया ॥ १० ॥ क्रियान्वयि मुख्यम् परं गौणम् समयादिभिर्नवभिर्युक्ताद्गौणान्नाम्नो द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा मैत्रं व्याधिः । धिग् जाल्मम् । अन्तरा निषधं नीलं च विदेहाः। अन्तरेण धर्म व सुखम् । अति वृद्धं कुरून् वलं । येन पश्चिमां गतस्तेन पश्चिमां नीतः।
द्वित्वेऽधोध्युपरिभिः ॥ ११ ॥
...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org