SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८० हैमलघुप्रक्रियाव्याकरणे द्विरुक्तैरेभिर्युक्ताद्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यधिग्रामम् । उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् । अधो गृहस्य ।। सर्वोभयाभिपरिणा तसा ॥ १२ ॥ सर्वादिभिश्चतुर्भिस्तसन्तैर्युक्ताद्वितीया स्यात् । सर्वतो ग्राम वनानि । - कालाध्वनोाप्तौ द्वितीया ॥ १३ ॥ व्याप्ति रन्तर्यम् । मासमधीते । क्रोश गिरिः । इति द्वितीया। सिद्धौ तृतीया ॥ १४ ॥ मासेनावश्यकमधीतम् । सिद्धाविति किम् । मासमधीतो नत्वाचारोऽनेन गृहीतः। हेतुकर्तृकरणेत्थम्भूतलक्षणे ॥ १५॥ - एषु चतुर्पु तृतीया स्यात् । तत्र फलसाधनयोग्यो हेतुः । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । कमण्डलुना छात्रमद्राक्षीत् । . स्वतन्त्रः कर्ता ॥ १६ ॥ ___क्रियासिद्धौ प्रकृष्टो यः स कर्ता स्यात् । तथाहुः-निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥१॥ फलार्थी यः स्वतन्त्रः सन्फलायारभते क्रियाम् । नियोक्ता परतन्त्राणां स कर्ता नाम कारकम् ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy