SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कारकप्रक्रिया | चैत्रेण कृतम् । यत्तु चैत्रः कटं करोतीत्यादौ प्रथमा सोक्तत्वात् । आख्यातकृत्प्रत्ययेनो के हि सर्वत्र कार के प्रथमा । यथा घटः क्रियते । स्नानीयं चूर्णम् । दानीयो मुनिः । भयानको व्याघ्रः । गुडाधानी स्थाली । साधकतमं करणम् ॥ १७ ॥ क्रियात्वेनाव्यवधानेन विवक्षितं क्रियासिद्धौ प्रकृष्टोपकारकं करणं स्यात् । दानेन लभते भोगम् । किश्चित्प्रकारमापन्नस्य चिह्नं इत्थंभूतलक्षणम् । कमण्डलुना छात्रं लक्षयेः । सहार्थे ॥ १८ ॥ सहार्थस्तुल्ययोगो विद्यमानता च । तस्मिन्गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहागतः स्थूलो गोमान् । एकेनापि सुपुत्रेण सिंही स्वपिति निर्भरम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ॥ ३ ॥ यद्भेदैस्तद्वदाख्या ॥ १९ ॥ यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्य प्रसिद्धिः स्यात् ततस्तृतीया स्यात् । अक्ष्णा काणः । प्रकृत्या दर्शनीयः । आख्येति प्रसिद्धिपरिग्रहार्थम् । तेनाक्ष्णा दीर्घ इति न स्यात् । कृतायैः ॥ २० ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy