SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८२ हैमलघुप्रक्रियाव्याकरणे एभिर्निषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन । किं गतेन । इति तृतीया । कर्माभिप्रेयः संप्रदानम् ॥ २१ ॥ कर्मणा व्याप्येन क्रियया वा योऽभिसंबध्यते स संप्रदानं स्यात् । ( चतुर्थी संप्रदाने) देवाय बलिं दत्ते । राज्ञे कार्यमाचष्टे । पत्ये शेते । (स्पृहेर्व्याप्यं वा संप्रदानम् ) साधुभ्यः साधुन् वा स्पृहयति । (क्रुद्र्ष्यासूयाथैर्योगे यं प्रति कोपः स संप्रदानमू* ) मैत्राय क्रुध्यति । द्रुह्यति । नोपसर्गात्कुद्गुहा ॥ २२ ॥ सोपसर्गाभ्यां क्रुद्द्भुहिभ्यां योगे तु न । मैत्रम - भिक्रुध्यति । तादर्थ्ये ॥ २३ ॥ तस्मै इदमिति गम्यमाने चतुर्थी स्यात् । यूपाय दारु । रन्धनाय स्थाली । रुचिकृप्यर्थ धारिभिः प्रेयविकारोतमर्णेषु ॥ २४ ॥ रुच्यथैः कृष्यर्थैर्धारिणा च योगे यथासङ्ख्यं प्रेयविकारोत्तमर्णेभ्यश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः । मूत्राय कल्पते यवागूः । चैत्राय शतं धारयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy