________________
कारकप्रक्रिया |
उत्पातेन ज्ञाप्ये ॥ २५ ॥
उत्पात आकस्मिकं निमित्तम् तेन ज्ञाप्याच्चतुर्थी स्यात् । वाताय कपिला विद्युत् । गम्यस्याप्ये ॥ २६ ॥
यस्यार्थो गम्यते न च शब्दः प्रयुज्यते तस्य तुमो वाप्याच्चतुर्थी स्यात् । फलेभ्यो व्रजति । गम्यस्येति किम् । फलान्याहर्तुं याति ।
गतेर्नवाऽनाप्ते ॥ २७ ॥
·
गतिः पादविहरणं तस्या आप्यादप्राप्ताच्चतुर्थी वा स्यात् । ग्रामं ग्रामाय वा याति । मन्यस्याऽनावादिभ्योऽतिकुत्सने ॥ २८ ॥ अत्यन्तं कुत्सायां गम्यायां मन्यतेर्व्याप्याच्चतुर्थी वा स्यात् । न त्वां तृणाय तृणं वा मन्ये । नावादिगणान्नैवम् । न त्वां नावमन्नं काकं शुकं शृगालं वा मन्ये । ( हितसुखाभ्यां योगे वा चतुर्थी ) चैत्राय चैत्रस्य वा हितं सुखम् । ( आशिषि गम्यायां हितसुखभद्रायुष्यक्षेमार्थार्थैर्योगे वा चतुर्थी*) हितं पथ्यं सुखं भद्रं आयुष्यं क्षेमं कल्याणं अर्थः कार्य जीवेभ्यो जीवानां वा भूयात् । शक्तार्थवषड्नमःखस्तिखाहाखधाभिः ॥ २९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org