SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७८: हैमलघुप्रक्रियाव्याकरणे गौणभेदात्तद्विधा । कर्मणि द्वितीया स्यात् । कटं करोति । काष्ठं दहति । ग्रामं गच्छति । राज्यं प्राप्नोति । विषमत्ति । ग्रामं गच्छंस्तृणं स्पृशति । स्मृत्यर्थदयेशः॥ ४ ॥ एषां व्याप्यस्य कर्मत्वं वा कर्मत्वे द्वितीयान्यथा षष्ठी। मातरं स्मरति मातुः स्मरतिः । मातुः स्मयते माता स्मयते । सर्पिषो दयते । सर्पिदेयेत । लोकानीष्टे । लोकानार्मीष्टे । (नाथस्तथा*) सर्पिनाथते । सर्पिषो नाथते। रुजाऽर्थस्याऽज्वरिसन्तापेर्भावकर्तरि ॥५॥ ज्वरिसन्तापिवर्जपीडार्थधातूनामपि व्याप्यं कर्म वा भावे कर्तरि सति । चौरस्य चौरं वा रुजति रोगः । (जासनाटक्राथपिषो हिंसायाम्*) चौरस्य चौरं वोजासयति। . . निप्रेभ्यो नः ॥६॥ समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हन्ते प्प्यं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहन्ति निहन्ति प्रहन्ति प्रणिहन्ति इत्यादि । (अधेः शी स्थास आधारः कर्म नित्यं स्यात्*) ग्राममधिशेते अधितिष्ठति अध्यास्ते। - उपान्वध्यावसः ॥७॥ - एभ्यो वसतेराधारोऽप्येवम् । ग्राममुपवसति । '' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy