________________
२६४ हैमलघुप्रक्रियाव्याकरणे.
किति यि शय् ॥ १४॥ शीडः विति यादौ शय् स्यात् । शाशय्यते ।
ऋतो रीः॥१५॥ चियड्यक्येषु परेषु ऋदन्तस्य ऋतोरीः स्यात्। चेक्रीयते ।
ऋत्मतां ॥१६॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्वात्। (नृतेर्यडि नो ण् न स्यात्*) नरीनृत्यते परीपृ. च्छयते । क्ययडगशीर्ये इति गुणे ततो द्वित्वे सास्मर्यते । वा परोक्षायडीति वृद्विकल्पे शोशूयते शेश्वीयते। वञ्चत्रंसध्वंसशकसपतपदस्क
न्दोऽन्तो नीः ॥ १७॥ एषामष्टानां यडि द्वित्वे पूर्वस्य नीरन्तः स्यात्। नो व्यञ्जनस्येति नलुपि, वनीवच्यते सनीलस्यते इत्यादि । (व्येस्यमोर्यडि स्वृत् स्यात्*) वेवीयते सेसिम्यते । (चायः कीर्यडि* ) चेकीयते । वशेरयडीति वृनिषेधात्, वावश्यते । बोभूयते ४ । अबोभूयिष्ट ५ बोभूयांचक्रे ।
इति यडन्तप्रक्रिया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org