________________
यङ्लुगन्तप्रक्रिया |
अथ यङ्लुगन्तप्रक्रिया । बहुलं लुप् ॥ १ ॥ यङो लुप् बहुलं स्यात् । क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ यङ्लुगन्तं परस्मैपदेऽदादिवद्बोध्यम् । यतुरुस्तोरिति वा ईडागमे बोभवीति - बोभोति बोभूतः बोभुवति बोभोषि, इत्यादि १ । बोभूयात् २ बोभवीतु- बोभोतु बोभूतात् । ङित्त्वेन वित्त्वस्य बाध-नान्न गुणः, बोभूहि ३ बोभूतात् ३ । अबोभवीत्अबोभोत् अबोभूताम् । अबोभवुः ४ । पिबैतिदेति सिज्लुपि ।
1
" तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि” . इति । भवतेः सिजलुपीति गुणनिषेधाभावे अबोभोत् अबोभोताम् अबोभूवन् ५ । बोभवाञ्चकार ६ । बोभूयात् बोभूयास्ताम् ७ ।
न वृद्धिश्वाविति डिल्लोपे ॥ २ ॥
अविति प्रत्यये यः कितो ङितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । बेभिदिता मरीमृ
www.jainelibrary.org
व्या. २३
Jain Education International
२६५
For Personal & Private Use Only