SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ यङ्लुगन्तप्रक्रिया | अथ यङ्लुगन्तप्रक्रिया । बहुलं लुप् ॥ १ ॥ यङो लुप् बहुलं स्यात् । क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ यङ्लुगन्तं परस्मैपदेऽदादिवद्बोध्यम् । यतुरुस्तोरिति वा ईडागमे बोभवीति - बोभोति बोभूतः बोभुवति बोभोषि, इत्यादि १ । बोभूयात् २ बोभवीतु- बोभोतु बोभूतात् । ङित्त्वेन वित्त्वस्य बाध-नान्न गुणः, बोभूहि ३ बोभूतात् ३ । अबोभवीत्अबोभोत् अबोभूताम् । अबोभवुः ४ । पिबैतिदेति सिज्लुपि । 1 " तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि” . इति । भवतेः सिजलुपीति गुणनिषेधाभावे अबोभोत् अबोभोताम् अबोभूवन् ५ । बोभवाञ्चकार ६ । बोभूयात् बोभूयास्ताम् ७ । न वृद्धिश्वाविति डिल्लोपे ॥ २ ॥ अविति प्रत्यये यः कितो ङितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । बेभिदिता मरीमृ www.jainelibrary.org व्या. २३ Jain Education International २६५ For Personal & Private Use Only
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy