SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया | तौ माड्याक्रोशेषु ॥ १०८ ॥ : माङयुपपदे आक्रोशे गम्ये तौ शत्रानशौ स्याताम् । मापचन् जाल्मो ज्ञास्यति । मापचमानः । ( वा वेत्तेः क्वसुर्वर्तमाने* ) तत्त्वं विद्वान् विदन् । वयः शक्तिशीले ॥ १०९ ॥ एषु गम्येषु सत्यर्थे वर्तमानाद्धातोः - शानः स्यात् । वयः कतीह शिखण्डं वहमानाः । शक्तिः कतीह स्त्रियं गच्छमानाः । शीलं कतीह परान् निन्दमानाः । २.९३ धारीङोऽकृच्छ्रेऽतृश् ॥ ११० ॥ सुखसाध्येऽर्थे वर्तमानयोरनयोरतृशू स्यात् । धारयन्नाचारागमम् । अधीयंस्तत्त्वार्थम् । तृन् शीलधर्मसाधुषु ॥ १११ ॥ शीलादिषु सदर्थाद्धातोस्तृन स्यात् । कर्ता कटं । शीलादिसदर्थोऽधिकारसमाप्तिं यावदनुवर्तते । : भ्राज्यलंकुगुनिराकृग्भूसहिरुचितृ तिवृधिचरिप्रजनापत्रपइष्णुः ॥ ११२ ॥ एभ्य एकादशभ्य इष्णुः स्यात् । भ्राजते इत्येवंशीलो भ्राजिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वर्तिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । अपत्रपिष्णुः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy