SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९२ हैमलघुप्रक्रियाव्याकरणे तत्र कसुकानौ तद्वत् ॥ १०२ ॥ . परोक्षायां विषये धातोः कसुकानौ स्यातां तौ च परोक्षावत् । चकृवान् चक्राणः। घसेकखरातः कसोः॥ १०३ ॥ घसेरेकस्वरादादन्ताच्च धातोः परस्य कसोरिद स्यात् । जक्षिवान् । आदिवान् । ययिवान् । पेचिवान् । पेचानः। -गमहनविद्लुविशदृशो वा ॥ १०४॥ . एषां पञ्चानां कसोरिड्वा स्यात् । जग्मिवान् । जगन्वान् । जनिवान् जघन्वान् । विविदिवान् विविद्वान् । विविशिवान् विविश्वान् । ददृशिवान् ददृश्वान् । शत्रानशावेष्यति तु सस्यौ ॥ १०५॥ । वर्तमाने धातोः शत्रानशौ स्याताम् । भविष्यस्काले तु तो सस्यौ । यान् । शयानः । यास्यन् । अतो म आने ॥ १०६ ॥ धातोर्विहिते आनेऽतो मोऽन्तः स्यात् । शयिप्यमाणः । आसीनः । निपातोऽयम् ।। अवर्णान्तादश्नोऽन्तो वाऽतुरीङयोः ॥१०७॥ , श्रावर्जादवपरस्य अतुरीडयोः परयोरन्त वा स्यात् । तुदती तुदन्ती । भाती भान्ती । (श्याच्छवश्च नित्यं* ) दीव्यन्ती । पचन्ती । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy