SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०० हैमलघुप्रक्रियाव्याकरणे · I सुषाव ६ । सूयात् ७ । सोता ८ । सोष्यति ९ । असोष्यत् १० । तुंकु हिंसावृत्तिपूरणेषु । यङ्तुरुस्तोर्बहुलम् ॥ १६ ॥ यङ्लुबन्तात्तुरुस्तुभ्यश्च परो व्यञ्जनादौ विति ईत् बहुलं परादिः स्यात् । तवीति-तौति तुतः तुवन्ति १ । तुयात् २ । तौतु तवीतु तुतात् ३ । अतौत् ४ । केचित्तु सर्वत्र व्यञ्जनादौ शितीतमिच्छन्ति । तुतः तुवीतः सुयात् - तुवीयात् ४ । अतौषीत् ५ । तुताव ६ । तूयात् ७ । तोता ८ । तोष्यति ९ । अतोष्यत् १० । टुक्षु रु कुंकु शब्दे | टुकार इत् । रौति-रवीति ४ । अरावीत् ५ । क्षुकु सौतिवत्, किन्तु क्षोः सेट्त्वात् अक्षावीत् ५ । युक् मिश्रणे । णुकू स्तुतौ इत्यादयोऽपि सौतिवत् । रुदृक् अश्रुविमोचने । रुत्पञ्चकाच्छिदयः ॥ १७ ॥ रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिद्र स्यात् । रोदिति रुदितः रुदन्ति १ । रुद्यात् २ । रोदितु - रुदितात् रुदन्तु । रुदिहिरुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ३ । } दिस्योरीट् ॥ १८ ॥ रुत्पञ्चकाच्छितो दिस्योरादिरीट् स्यात् । अरोदीत् । अदश्चाडित्यडागमे च, अरोदत् अरुदिताम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy