SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अदादयः परस्मैपदिनः। १९९. आशिषीणः ॥ १२॥ उपसर्गात्परस्येण ईतः किति यादावाशिषि ह्रस्वः स्यात् । उदियात् । शेषं प्राग्वत् । इंक् स्मरणे । अधिपूर्व एवायम् । अध्येति अधीतः। इको वा ॥ १३॥ 'इकः स्वरादावविति शिति वा स्यात् । अधियन्ति-अधीयन्ति १ । षमिणवत् । आशिषि हस्वाभावो विशेषः । अधीयात् अधीयास्ताम् १०॥ वींक् प्रजनकान्त्यसनखादनेषु । वेति वीतः वियन्ति १। वीयात् २। वेतु-वीतात् वीहि ३ । अवेत् अवीताम् अवियन ४ । अवैषीत् अवैष्टाम् ५। विवाय विव्यतुः ६।वीयात् ७ । वेता ८ । वेष्यति ९ । अवेष्यत् १० । धुंक् प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । उत और्विति व्यञ्जनेऽद्वेः॥ १४ ॥ - अद्युक्तस्योदन्तधातोर्व्यञ्जनादौ विति औः स्यात् । सौति सुतः सुवन्ति १ । सूयात् २ । सौतु-सुतात् ३ । असौत् । धूग्सुस्तोः परस्मै ॥१५॥ एभ्यः परस्मैपदे सिच आदेरिट् स्यात् । सु इति सुमात्रग्रहणम् । असावीत् असाविष्टाम् । सुनोतेरेव ग्रहणमिति पक्षे । असौषीत् असौष्टाम् ५। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy