________________
१०८ हैमलघुप्रक्रियाव्याकरणे वभेद इतरेतरयोगोऽत एवात्रावयवद्वित्वबहुत्वापेक्षया द्विवचनबहुवचने । चैत्रश्च मैत्रश्च चैत्रमैत्रौ पश्यतः । चैत्रमैत्रदत्ताः पश्यन्ति । न्यग्भूतावयवभेदस्तु समाहारोऽतस्तत्रैकवचनमेव । धवखदिरपलाशम्।
समानामर्थेनैकः शेषः ॥ ७२ ॥ तुल्यार्थानां द्वन्द्व एकः शिष्यतेऽन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा।
. स्यादावसङ्ख्येयः ॥ ७३ ॥ : सर्वस्यादिषु तुल्यरूपाणां भिन्नार्थानामप्येकशेषः स्यात्सङ्ख्येयवाचिशब्दं वर्जयित्वा । अक्षश्च अक्षश्च अक्षश्च अक्षाः । शकटाङ्गपाशकबिभीतकाः।
त्यदादिः ॥७४॥ अन्येन सहोक्तौ त्यदादिः शिष्यते । मिथः सहोक्तौ तु यथापरम्।स च चैत्रश्च तौ।सच यश्च यौ। - भ्रातृपुत्राः खस्मृदुहितृभिः ॥७५॥ - स्वस्रादिभिः सहोक्तौ भ्रात्रादिः शिष्यते। भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । (श्वशुरः श्वश्रूभ्यां वा शिष्यते*) श्वशुरौ श्वश्रू. श्वशुरौ। (पिता मात्रा वा तथा*) पितरौ । पक्षे।
मातरपितरं वा ॥ ७६॥ - मातृपित्रोईन्द्वे ऋतोऽरो वा निपात्यः। मातरपितरौ । पक्षे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org