________________
समासे द्वन्द्वः । १० द्विगोः समाहारात् ॥ १९॥ समाहाराद्विगोरदन्तास्त्रियां डीः स्यात् । पञ्च ग्रामाः समाहृताः पञ्चग्रामी । (पात्रादिगणान्त इकाराद्यन्तश्च समाहारद्विगुर्नपुंसकम् ) द्विषात्रम् । चतुर्मासम् । त्रिभुवनम् । चतुष्पथम् । त्रिगुप्ति । ( अन्नन्ताबन्तान्तो वा नपुंसकम् ).
द्विगोरनहोऽदः ॥ ७॥ __ अन्नन्तादहनन्ताच्च समाहारद्विगोरट् स्यात् । नोपदस्येति । पञ्चराजी पञ्चराजम् यहा इत्यादि । पश्चमाली पञ्चमालम् । त्रिसन्ध्यमिति तु क्लीबम् । त्रिफलेति च रूढितः।
..इति द्विगुः। चार्थे इन्द्रः सहोक्तौ ॥ ७१ ॥ ५ नाम नाम्ना सह चार्थे समस्यते सहोक्तिविषये सति स समासो द्वन्द्धः स्यात् । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः। तत्रैकस्मिन् यादीनां क्रियाकारकद्रव्यगुणानां तुल्यकक्षतया ढौकनं समुञ्चयः। चैत्रः पचति पठति चेति । गुणमुख्यभावेनैकस्मिन् यादीनां क्रियादीनां ढौकनमन्वाचयः बटो भिक्षामट-गां चानय इत्येतयोः सहोत्यभावान्न समासः। परस्परसापेक्षाणां द्रव्याणां क्रियां प्रति ढौकनमितरतरयोगसमाहारौ । तत्रोद्भूतापक,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org