________________
तद्धितेष्वपत्यत्वाधिकारः ।
तस्मै हिते ॥ ७७ ॥ चतुर्थ्यन्ताद्धिते ईयः स्यात् । वत्सीयः। ( प्राण्य
ङ्गादिभ्यो यः) दन्त्यम् ।
भोगोत्तरपदात्मभ्यामीनः ॥ ७८ ॥
भोगोत्तरपदेभ्य आत्मनश्च हिते ईनः स्यात् । मातृभोगीणः । ( ईनेऽध्वात्मनोरन्त्यस्वरादेर्लुग् न स्यात् * ) आत्मनीनः ।
पञ्चसर्वविश्वाज्जनात्कर्म
१२९
धारयात् ॥ ७९ ॥
पञ्चादिपूर्वाज्जनान्तात्कर्मधारयाद्धिते ईनः स्यात् । पश्चजनीनः । विश्वजनीनः (सर्वाण्णो वा* ) सार्वः सर्वयः ।
इति हिताधिकारः ।
अपत्यादिषूक्तार्थेषु प्राग्वतः स्त्रीपुंसान्नञ् स्वञ् ।
स्त्रैणं पौनम् ।
त्वे वा ॥ ८० ॥
त्वविषये त्वेतौ वा । स्त्रैणं स्त्रीत्वम् । पौंस्तं
पुंस्त्वम् ।
Jain Education International
भावे त्वतलू ॥ ८१ ॥ षष्ठ्यन्ताद्भावेऽभिधेये त्वतलौ स्याताम् । शब्दप्रवृत्तिनिमित्तं भावः । गोत्वं गोता ।
For Personal & Private Use Only
www.jainelibrary.org