SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ .१२८ हैमलघुप्रक्रियाव्याकरणे तिकं कतिकं यावत्कम् । डतेः पृथग्ग्रहणं त्यन्तप्रातनिषेधपरिहाराय । अशत्तिष्टेरिति किम् । चात्वारिंशत्कम् । साप्ततिकम् । षाष्टिकम् । ( सहस्रशतमानादण आर्हदर्थे ) साहस्रः शातमानः । अनाम्न्यऽद्विः प्लुप् ॥ ७४ ॥ द्विगोरार्हृदर्थे जातस्य प्रत्ययस्य लुप् स्यात् नतु द्विः अनानि । द्वाभ्यां कंसाभ्यां क्रीतो द्विकंसः । इत्यादर्थावधिः । वहति रथयुगप्रासङ्गात् ॥ ७५ ॥ एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः । ( धुरो यैयण) धुर्यः धौरेयः । (वामाद्यादेरीन) वामधुरीणः । ( हलसीरादिकण) हालिकः सैरिकः । ( शकटादण्*) शाकटः । हृद्यधर्म्यपद्यादयः साधवः। (नौविषेण तार्यवध्ये*) नाव्या नदी । विष्यः शत्रुः । ( न्यायार्थादनपेते यः*) न्यायादनपेतं न्याय्यं अर्थ्यम् । तत्र साधौ ॥ ७६ ॥ सप्तम्यन्तात्साधौ यः स्यात् । सभ्यः । ( पर्षदो ण्यणौ साधौ ) पार्षद्यः पार्षदः पारिषद्यः पारिषदः । ( सर्वजनाण्ण्येनञौ साधौ ) सार्वजन्यः सार्वजनीनः । (पथ्यादेरेयण्*) पाथेयम् । आतिथेयी । ( ण्योऽतिये) आतिथ्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy