SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तद्धितेष्वपत्यत्वाधिकारः । १२५ तवकममकम* ) यौष्माकः यौष्माकी स्त्री यौष्माकीणः । यौष्माकीणा । युष्मदीयः । आस्माकः आस्माकीनः अस्मदीयः । तावकं मामकम् । तावकीनं मामकीनम् | त्वदीयं मदीयम् । अमोन्ताऽवोऽधसः ॥ ६२ ॥ अन्तादवसधस्भ्यां चामः स्यात् । प्रायो ऽव्ययस्य ॥ ६३ ॥ तद्धिते परेऽव्ययस्यान्त्यस्वरादेः प्रायो लुकू । अन्तमः अधमः । ( पश्चादाद्यन्ताग्रादिमः ) प - श्चिमः । ( मध्यान्मः* ) मध्यमः । ( अध्यात्मादिभ्य इकण* ) आध्यात्मिकं आधिदैविकम् । समानपूर्वलोकोत्तरपदात् ॥ ६४ ॥ समानपूर्वपदेभ्यो लोकोत्तरपदेभ्यश्चेकण् स्यात् । सामानग्रामिकः । पारलौकिकः । वर्षाकालेभ्यः ॥ ६५ ॥ वर्षाशब्दात्कालविशेषाच्चेकण् स्यात् । वार्षिकः मासिकः । (क्वचिद्वा*) नैशिकः नैशः । ( चिरपरुत्परारेस्लो वा*) चिरत्नं चिरतनमित्यादि । ( पुरो नः * ) पुराणं पुरातनम् । ( पूर्वाह्नापराह्नात्तनड्डा सप्तम्या अलुपू* ) पूर्वाह्णेतन: पौर्वाह्निकः (भर्तुसन्ध्यादेरण* ) आश्विनः ग्रैष्मः सान्ध्यः । हेमन्ताद्वा तो लुक् च ॥ ६६ ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy