________________
१२४ हैमलघुप्रक्रियाव्याकरणे . (पारावारादीन:*) पारावारीणः (व्यस्तव्यत्यस्तादपि) पारीणः । अवारीणः । अवारपारीणः । अलंगामीत्यर्थेप्येवम् । पारमलंगामी पारीण इत्यादि (धुप्रागपागुदक्प्रतीचो य* ) दिव्यं प्राच्यमपाच्यमुदीच्यं प्रतीच्यम् । (ग्रामादीनच*) ग्रामीणः ग्राम्यः।
कत्र्यादेश्चैयकञ् ॥ ५९॥ __ कन्यादिभ्यो ग्रामाच्चैयकञ् । कात्रेयकः । ग्रामेयकः। (दक्षिणापश्चात्पुरसस्त्यण*) दाक्षिणात्यः। पाश्चात्यः । पौरस्स्यः।
केहामात्रतसस्त्यच् ॥ ६॥ क्वेहामाभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच् स्यात् । कत्यः इहत्यः अमात्यः कुत्रत्यः कुतस्त्यः । (ऐषमो ह्यश्वसो वा त्यच्*) ऐषमस्त्यम् । पक्षे ।
सायंचिरंप्राज्ञेप्रगेऽव्ययात् ॥ ६१ ॥ एभ्यः कालार्थेभ्यस्तनट् स्यात् । ऐषमस्तनम् । ह्यस्त्यं शस्तनम् । श्वस्त्यं श्वस्तनम् । (भवतोरिकणीयसौ*) क्वचिदिकस्येतो लुक् । भावत्कम् भवदीयम् । (परजनराज्ञोऽकीयः*) परकीयः । राजकीयः। (दोरीयः*) देवदत्तीयः तदीयः पाणिनीयम् । (ईयेऽन्याहोन्त:*) अन्यदीयम् । (वा युष्मदस्मदोऽजीनौ युष्माकास्माकं चास्यैकत्वे तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org