SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे - अस्माद्वाण तद्योगे तलुक् च वा । हैमनं हैमन्तं हैमन्तिकं (प्रावृष एण्यः शेषे) प्रावृषेण्यः (जाते विका*) प्रावृषिकः । पूर्णः शेषाधिकारः । अगोप्यवधिः पूर्णः । (जितादिष्वर्थेषु यथायोगमिकणादयो वक्तव्याः* ) अर्जित आक्षिकः । दना संस्कृतं संसृष्टं वा दाधिकम् । उडुपेन तरति औडुपिकः नाविकः । हस्तिना चरति हास्तिकः । वेतनेन जीवति वैतनिकः ऋयिकः । मीनान् हन्ति मैनिकः । परदारान् गच्छति पारदारिकः । सुनातं पृच्छति सौनातिकः। प्रभूतं ब्रूते प्राभूतिकः । सेनां समवैति सैनिकः । धर्म चरति धार्मिकः । आध-मिकः । अपूपाः पण्यमस्य आपूपिकः । नृत्तं शिल्पमस्य नार्तिकः । असिः प्रहरणमस्य आसिकः । (नास्तिकास्तिकादयो निपात्या*) भावादिमः ॥६७॥ भावप्रत्ययान्तान्निवृत्ते इमः स्यात् । सेकिमम् फलम् । द्वारादेः ॥ ६॥ एषां वोः प्रागैदौतौ स्याताम् । द्वारे नियुक्तो दौवारिका निकटे वसति नैकटिकः । समाने तीर्थे वसति सतीर्यः। पन्थानं याति पथिका पान्थः । अहा विवृत्तमाहिकमित्यादि। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy