________________
.
...
.
३० . हैमलधुप्रक्रियाव्याकरणे .
किवृत्तेरसुधियस्तौ ॥ १८ ॥ क्विबन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दवर्जितायाः संबन्धिनो धातोरिवर्णोवर्णयोः स्वरादौ स्यादौ य्वौ स्याताम् । सेनान्यौ । सेनान्यः ४ । सेनान्यम् , सेनान्याम् । सप्तम्येकवचने, निय आम्। सेनान्याम् । हे सेनानीः। एवं ग्रामणी-प्रभृतयः। सुलू' । सुल्वौ । सुल्वः । सुल्वां। सुल्वि। हे सुलूः। एवं खलपूप्रभृतयः । अत्र सुधीशब्दवर्जनात्तस्य नीशब्दवत्प्रक्रिया । सुधीः। सुधियौ । सुधियाम् । सुधियि।
दृन्पुनवर्षाकारैर्भुवः॥४९॥ दृनादिपूर्वस्य भुवः स्वरादौ स्यादौ वः स्यात् । हनुभवौ। इनभ्वः । क्विवृत्तेरिति वत्वे सिद्धे नियमार्थमिदस् । सिद्धे सवारम्भो नियमार्थ इति । तेनान्यो भूशब्दो लूशब्दवत् । स्वयंभूः । स्वयंभुवौ । यवान्क्रीणातीति यवक्रीः।
संयोगात् ॥५०॥ 'संयोगात्परयोर्धातोरिवर्णोवर्णयोः स्वरादौ इयुवौ स्याताम् । क्विवृत्तेरित्यस्यापवादः।यवक्रियो। यवक्रियः । एवं कटपूशब्दोऽपि । सुश्रीशब्दस्य
वेबुवोऽस्त्रियाः ॥ ५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org