SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे गस्थकः टनणू च ॥ १३ ॥ गः शिल्पिनि कर्तर्येतौ स्याताम् । गाथकः । आत ऐः कृञौ, गायनी । २७६ तिकृतौ नानि ॥ १४ ॥ आशीर्विषये संज्ञायां गम्यायां तिकृतश्च सर्वे प्रत्ययाः स्युः । अहन्पञ्चमस्य किङ्किति ॥ १५ ॥ हन्वर्जपञ्चमान्तस्य कौ धुडादौ किति च दीर्घः स्यात् । शम्यादित्याशास्यमानः शान्तिः । क्वचित्तिकि न दीर्घः । रन्तिः । वर्धतामित्याशास्यमानो वर्धमानः । कर्मणोऽण् ॥ १६ ॥ कर्मणः पराद्धातोरण स्यात् । कुम्भं करोतीति कुम्भकारः । आतोडोऽह्वावामः ॥ १७ ॥ कर्मणः परादनुपसर्गात् ह्वावामावर्जादादन्ताद्धातोर्डः स्यात् । गोदः । अह्वावाम इति किम् । स्वर्गह्रायः तन्तुवायः धान्यमायः । आशिषि हनः ॥ १८ ॥ कर्मणः पराद्धन्तेराशिषि गम्यायां डः स्यात् । शत्रुहः । Jain Education International For Personal & Private Use Only } www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy