SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अदादय आत्मनेपदिनः । अस्ति ब्रुवोर्भूवचावशिति ॥ ४९ ॥ अस्तिब्रुवोर्यथासङ्ख्यं भूवचौ स्याताम् अशिति विषये । अभूत् ५ । बभूव ६ । इत्यादि प्राग्वत् । प्रादुरुपसर्गाद्यखरेऽस्तेः ॥ ५० ॥ प्रादुः शब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात्परस्यास्तेः सकारस्य यादौ स्वरादौ च प्रत्यये षः स्यात् । प्रादुष्ण्यात् निष्यात् प्रादुष्यन्ति निषन्ति । शिडूनान्तरेऽपि । निःषन्ति । इति परस्मैपदिनः । २११ अदादय आत्मनेपदिनः । इक् अध्ययने । ङकार आत्मनेपदार्थः । अधिपूर्वश्चायम् । अधीते । धातोरिवर्णेतीयादेशे अधीयते अधीयते । अधीषे १ । अधीयीत अधीयीयाताम् २ | अधीताम् अधीयाताम् ३ । अध्यैत इयादेशे वृद्धौ च अध्येयाताम् अध्यैयत ४ । वाद्यतनीक्रियातिपत्त्योर्गीङ् ॥ ५१ ॥ अनयोः परयोरिङो गीङ् वा स्यात् । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्यैष्ट अध्यै - षाताम् अध्यैषत ५ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy