SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१२ हैमलघुप्रक्रियाव्याकरणे गाः परोक्षायाम् ॥ ५२॥ इङः परोक्षाविषये गाः स्यात् । अधिजगे ६। अध्येषीष्ट ७ । अध्येता ८ । अध्येष्यते ९ । अध्यगीष्यत अध्यैष्यत १० । शी स्वप्ने । (शीड ए: शिति* ) शेते शयाते। शीडोरत् ॥ ५३ ॥ शीङः परस्याऽऽत्मनेपदस्थस्याऽन्तोरत् स्यात् । शेरते १ । शयीत २ । शेताम् शयताम् शेरताम् ३ । अशेत ४ । अशयिष्ट ५ । शिश्ये ६ । शयिषीष्ट ७ । शयिता ८ । शयिष्यते ९ । अशयिष्यत १० । षूडौक् प्राणिगर्भविमोचने । सूते १। धातोरिवर्णोवर्णस्येति उवादेशे सुवीत २। सूताम् वि. च्छितोऽकुित्त्वाद्गुणे प्राप्ते (सूतेः पञ्चम्यां गुणो न स्यात् ) सुवै ३ । असूत ४ । औदित्त्वादिविकल्पः । असविष्ट असविषाताम् असविषत । अ. सोष्ट असोषाताम् असोषुः ५। सुषुवे सुषुविषे ६। सोषीष्ट-सविषीष्ट ७ । सोता-सविता ८ । सोप्यते -सविष्यते ९। असोष्यत-असविष्यत १०॥ इत्यादि। ईडिक् स्तुतौ । ईट्टे ईडाते ईडते। ईशीडः सेवेखध्वमोः॥ ५४ ॥ आभ्यामेष्विट् स्यात् । ईडिषे ईडाथे ईडिध्वे । ईडे ईड्वहे ईड्महे १ । ईडीत २ । ईट्टाम् ३ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy