________________
२१०
हैमलघुप्रक्रियाव्याकरणे
उष्टः उशन्ति । वक्षि उष्ठः उष्ठ । वश्मि उश्वः उश्मः १ । उश्यात् २। वष्टु-उष्टात् उष्टाम् उशन्तु I उडि-उष्टात् उष्टम् उष्ट । वशानि वशाव वशाम ३ । अवटू-डू वृति स्वरादेस्तास्विति वृद्धौ, औष्टाम् औशन् । अवटू-डू औष्टम् । औश्व औरम ४ । व्यञ्जनादेवपान्त्यस्यात इति वृद्धिविकल्पे, अवाशीत्-अवशीत् अवाशिष्टाम्-अवशिष्टाम् ५। द्वित्वे यजादि वश इति वृति, वृद्धौ उवाश । वशेरयङि इति वृति द्वित्वे च ऊशतुः ऊशुः । उवशिथ ऊशथुः ऊश । उवाश-उवश ऊशिव ऊशिम ६ । उश्यात् उश्यास्ताम् ७ । वशिता ८ । वशिष्यति ९ । अवशिष्यत् १० । असक् भुवि । अस्ति ।
नास्त्योर्लुक् ॥ ४७ ॥ •
श्नश्वास्तेश्चातः शित्यविति लुक् स्यात् । स्तः सन्ति ।
अस्तेः सिहस्त्वेति ॥ ४८ ॥
अस्तेः सस्य लुक् स्यात्सादौ प्रत्यये एति च सस्य हः स्यात् । असि स्थः स्थ । अस्मि स्वः स्मः १ ॥ स्यात् स्याताम् स्युः २ । अस्तु - स्तात् स्ताम् सन्तु । शासस् इति, एधि-स्तात् स्तम् स्त । असानि असाव असाम ३ । सः सिजस्तेरितीदागमे एत्यस्तेरिति वृद्धौ च आसीत् आस्ताम् आसन् । आसीः आस्तम् आस्त । आसम् आस्व आस्म ४ ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org