SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अदादयः परस्मैपदिनः । अतः ॥ ४२ ॥ अदन्ताद्धातोर्विहितेऽशिति प्रत्यये धातोर्लुक् स्यात् इत्यकारलुपि । अवधीत् अवधिष्टाम् अवधिषुः ५ । ञिणवि घन् ॥ ४३ ॥ औणवि च परे हन्तेर्धन् स्यात् । ततो द्वित्वे, द्वितीयतुर्ययोरिति घस्य गत्वे, गहोर्ज इति तस्य जत्वे, वृद्धौ च जघान । हनो द्वित्वे गमहनेत्युपान्त्यपि । अडे हिनो हो घः पूर्वात् ॥ ४४ ॥ हिनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य हों घः स्यात् । जघ्नतुः जघ्नुः । जघनिथजघन्थ जघ्नथुः जघ्न । जघान - जघन जघ्निव जनिम ६ । हनो वध आशिष्यञ ॥ ४५ ॥ २०९ आशीर्विषये हन्तेर्वधः स्यात्, न तु ञिटि । वध्यात् वध्यास्ताम् वध्यासुः ७ । हन्ता ८ । हनृतः स्यस्येतीडागमे, हनिष्यति ९ । अहनिष्यत् १० । वशक् कान्तौ । यजसृजेति षत्वे, तवर्गस्य श्चवर्गेति टत्वे, वष्टि । वंशेरयङि ॥ ४६ ॥ वशेः सस्वरान्तस्था अयङि ङ्कति वृत्स्यात् । - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy