SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०८ हैमलघुप्रक्रियाव्याकरणे . वेत्तेः कित् ॥ ३९॥ - वेत्तेः परस्याः परोक्षाया आम्वा स्यात् , स च कित् । विदाञ्चकार ३ । पक्षे विवेद विविदतुः विविदुः । विवेदिय ६ । विद्यात् विद्यास्ताम् विद्यासुः ७ । वेदिता ८ । वेदिष्यति ९ । अवेदिष्यत् १० । हनंक हिंसागत्योः । हन्ति । नेडमादेति णत्वे, प्रणिहन्ति । यमिरमीति नलुपि, हतः। गमहनेत्युपान्त्यलुपि, हंनो हुनो न इति नादेशे, घ्नन्ति । हनो घीति णत्वप्रतिषेधे, प्रघ्नन्ति । हंसि हथः हथ । हन्मि हुन्वः हन्मः। हनो वमि वा ॥ ४०॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य हन्ते! ण स्यात्, मोः परयोस्तु वा । प्रहण्मि-प्रहन्मि प्रहण्वः-प्रहन्वः १। हन्यातू-अहण्यात् २ । हन्तु-हतात हताम् घ्नन्तु । शासाऽसू हन इति, जहि-हतात् हतम् हत । हनानि हनाव हनाम ३ । अहन् अहताम् अनन् । अहन् अहतम् अहत । अहनम् अहन्व अहन्म ४। अद्यतन्यां वा त्वात्मने ॥ ४१॥ अद्यतन्यां विषये हनो वधः स्यात् , आत्मनेपदे तु वा । इट ईतीति सिजलोपे। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy