SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अदादयः परस्मैपदिनः । अमार्जम् अमृज्व अमृज्म ४ । औदित्वादिड्डिकल्पे, अमाजत्-अमाक्षत् ५ । ममार्ज ममार्जतुः-ममृजतुः ममार्जुः -ममृजुः । ममार्जिथ ६ । मृज्यात् ७ । मार्जिता मा ८ । मार्जिष्यति - मार्क्ष्यति १९ । अ मार्जिष्यत् - अमार्क्ष्यत् १० | विदक् ज्ञाने । वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । तिवां णवः परस्मै ॥ ३७ ॥ वेत्तेः परेषां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः । वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्वं विद्म १ | विद्यात् विद्याताम् विद्युः २ । २०७ पञ्चम्याः कृग् ॥ ३८ ॥ वेत्तेः परस्याः पञ्चम्याः किवाम् वा स्यात्, आमन्ताच्च पञ्चम्यन्तः कृगनुप्रयुज्यते । विदांकरोतु । पक्षे वेत्तु - वित्तात् वित्ताम् विदन्तु । हुधुटो हेर्धिरिति विद्धि-वित्तात् वित्तम् वित्त । वेदानि वेदाव वेदाम ३ । व्यञ्जनाद्देरिति दिवूलुपि, अवेत् अवित्ताम् । सिज्विदो भुव इत्युसि, अविदुः । सेः सद्धां च रुव इति सेलुपि, दस्य रुत्वे । अबेः अवित्तम् अवित्त | अवेदम् अविद्व अविद्म ४ । अवेदीत् अवेदिष्टाम् अवेदिषुः ५ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy