SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे भूतानद्यतने वर्तमानाद्धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । शिष्यास्तव भवन्ति स्म । पुरा भवति ते पदम् । अभवदित्यर्थः । १४८ अद्यतनी ॥ १७ ॥ अद्यतनकाले भूतार्थाद्धातोरद्यतनी स्यात् । विशेषाऽविवक्षाव्यामिश्रे ॥ १८ ॥ अद्यतनादिविशेषाऽविवक्षायां व्यामिश्रणे च सति भूतार्थाद्धातोरद्यतनी स्यात् । अद्यतनी । परस्मैपदिनः । आत्मनेपदिनः । दि ताम् अन्। त आताम् अन्त । सि तम् त। अम् व म । थास् आथाम् ध्वम् । वहि इ महि । सिजद्यतन्याम् ॥ १९ ॥ अद्यतन्यां परस्यां धातोः परः सिच् स्यात् । इकार उच्चारणार्थः । चकारो विशेषार्थः । पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट् ॥ २० ॥ देति दासंज्ञा धातवः । एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात् लुब्योगे न चेटू । भवतेः सिजुलुपि ॥ २१ ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy