________________
भ्वादयः परस्मैपदिनः। १६९ हसिष्यति ९ । अहसिष्यत् १० । दहं भस्मीकरणे। दहति ४ । भ्वादेर्दादेर्घः । इति हस्य घत्वे, गडदबादेरिति दस्य धत्वे, अघोषे प्रथमोऽशिट इति घस्य कत्वे, अधाक्षीत् । धुट् हस्वादिति सिज्लुपि ।
अधश्चतुर्थात्तथोधः ॥ १०६ ॥ चतुर्थात्परयोर्धारूपवर्जाद्धातोनिहितयोस्तथोपः स्यात् । अदाग्धाम् अधाक्षः ५। ददाह देहतुः देहुः ६। दह्यात ७॥ दग्धा ८॥धक्ष्यति ९ । अधक्ष्यत। १० । मिहं सेचने । मेहति ४ । हशिट इति सकि, अमिक्षत् ५ । मिमेह मिमिहतुः ६ । मिह्यात् ७।
ढस्तड्ढे ॥ १०७॥ तन्निमित्ते ढे परे ढस्यानु लुक् स्यात् दीर्घश्चादिदुतः । मेढा ८ । मेक्ष्यति ९ । अमेष्यत् १० । अर्ह मह पूजायाम् । अर्हति ४.) आहीत् ५ । आ. नर्ह ६ । अर्थात् ७ । अर्हिता ८ । अहिष्यति ९॥ आर्हिष्यत् १० । महति ४ । अमहीत् ५। ममाह मेहतुः ६ । मह्यात् ७ । महिता ८ । महिष्यति ९ । अमहिष्यत् १० । अक्षौ व्याप्तौ च ।
वाऽक्षः ॥ १०८॥ अस्मात्कर्तरि शिति श्रुर्वा स्यात् ।
उश्नोः ॥ १०९॥ धातोः परयोरकिति गुणः स्यात् । अक्ष्णोति ।
व्या. १५ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org