________________
१५२ हैमलघुप्रक्रियाव्याकरणे सामान्यतो भविष्यदर्थाद्धातोभविष्यन्ती स्यात्।
__ भविष्यन्ती। । परस्मैपदिनः। . आत्मनेपदिनः । स्यति स्यतस् स्यन्ति । स्यते स्येते स्यन्ते । स्यसि स्यथस् स्यथ । स्यसे स्येथे स्यध्वे । स्यामि स्यावस् स्यामस् । स्ये स्यावहे स्यामहे । "इडागमे । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः।
पुरायावतोर्वर्तमाना ॥ ३४ ॥ अनयोरुपपदयोर्भविष्यदर्थाद्धातोर्वर्तमाना स्यात् । पुरा भवति । यावद्भवति । भविष्यतीत्यर्थः। (कदाकोने वा*) कदा भवति । कदा भविष्यति। कहि भवति कर्हि भविष्यति। - माङयद्यतनी ॥ ३५॥
माङयुपपदे धातोरद्यतनी स्यात्। सर्वविभक्त्यपवादः। माड्योगेऽडागमाभावः । मा भूत् ।
सस्मे ह्यस्तनी च ॥ ३६॥ समे माङयुपपदे ह्यस्तनी अद्यतनी च स्यात् । मा स्म भवत् मा स्म भूत् । - अयदि स्मृत्यर्थे भविष्यन्ती ॥ ३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org