SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः। १५३ स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविघ्यन्ती स्यात् नतु यद्योगे । स्मरसि साधो सिद्धाद्रौ तपस्विनो भविष्यामः । यद्योगे तु । स्मरसि यत्तत्र तपस्विनोऽभवाम। धातोः सम्बन्धे प्रत्ययाः ॥ ३८॥ धात्वर्थानां विशेषणविशेष्यभावे सति यथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । प्रचये नवा सामान्यार्थस्य ॥३९॥ धात्वर्थानां च समुच्चये गम्ये सामान्यार्थस्य धातोः संबन्धे सति धातोः परौ हिस्वौ तध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन् वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे वपति लुनातीत्येवं यतते यत्यते वा। सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते । पक्षे सूत्रमधीते नियुक्तिमधीते इत्येवमधीते । एवं तध्वमोरप्युदाहरणानि । यथाविधि धातोः संबन्धे सति भृशाभीक्ष्ण्येऽप्येवम् । लुनीहि पुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवमयमधीते इत्यादि । सप्तम्यर्थे क्रियातिपत्तौ क्रियाति पत्तिः ॥४०॥ सप्तम्या अर्थो निमित्तं हेतुफलादि सामग्री Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy