________________
६४ हैमलघुप्रक्रियाव्याकरणे
कथमित्थम् ॥ १२ ॥ एतौ प्रकारे साधू । . किंयत्तत्सर्वैकान्यात्काले दा ॥ १३ ॥ कदा यदा तदा सर्वदा एकदा अन्यदा । सदा अधुना इदानीम् तदानीम् एतर्हि एते काले साधवः। - सद्योऽद्यपरेद्यव्यति ॥ १४ ॥ एतेऽह्नि काले साधवः। पूर्वोपराधरोत्तरान्यान्यतरे
तरादेद्युस् ॥१५॥ ङयन्तेभ्यः सप्तभ्य एभ्योऽह्नि काले एद्युस् । पूर्वेयुः।
उभयाद् द्युश्च ॥ १६ ॥ उभयद्युः । चादेद्युस् उभयेयुः। - ऐषमः परुत् परारि वर्षे ॥ १७ ॥ पूर्वस्मिन्वर्षे परुत् । पूर्वतरे वर्षे परारि ।
सङ्ख्याया धा ॥१८॥ प्रकारे । एकधा।
डत्यतु सङ्ख्यावत् ॥ १९ ॥ डत्यन्तमत्वन्तं च सङ्ख्यावत्स्यात् । कतिधा यावद्धा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org