SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६२ हैमलघुप्रक्रिया व्याकरणे । दध्यतुः दध्युः । दध्यिथ ६ । ध्येयात् ध्यायात् ७ । अर्च पूजायाम् । अर्चति । खरादेस्तासु ॥ ७६ ॥ स्वरादेर्धातोरादेरद्यतनीह्यस्तनीक्रियातिपत्तिषु वृद्धिः स्यात् । आर्चत् ४ । आचींत् आर्चिष्टाम् ५। अनातो नश्चान्त ऋदाद्यशौ संयोगस्य ॥ ७७ ॥ ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरत आत्स्थानादन्यस्य आः स्यात् कृतातो नोन्तश्च । आनच आनर्चतुः आनचुः ६ । अर्ध्यात् ७ । अर्चिता ८ । अर्चिष्यति ९ । आचिंष्यत् १० । त्यजं हानौ । त्यजति ४ । व्यञ्जनानामनिटि ॥ ७८ ॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि समानस्य वृद्धिः स्यात् । चजः कगमिति जस्य गत्वे, अघोषे प्रथमो शिट इति गस्य कत्वे, नाम्यन्तस्थेति सस्य पत्वे, अत्याक्षीत् । धुड् ह्रस्वाल्लुगनिटस्तथोः ॥ ७९ ॥ धुडन्तात् हस्वान्ताच्च धातोः परस्यानिटः सिचस्तादौ थादौ च लुकू स्यात् । अत्याक्ताम्म्र अत्याक्षुः । अत्याक्षीः । अत्याक्ष्म ५ । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy