________________
२०२
हैमलघुप्रक्रियाव्याकरणे
श्वसिष्यति ९ । अश्वसिष्यत् १० । जक्षक् भक्षहसनयोः । जक्षिति जक्षितः ।
अन्तो नो लुक् ॥ २० ॥
युक्तजक्षपश्ञ्चकात्परस्यान्तो नो लुक्स्यात् । जक्षति १ । जक्ष्यात् २ | जक्षितु ३ । अजक्षीत् अजक्षिताम् ।
द्युक्तजक्षपञ्चतः ॥ २१ ॥
कृतद्वित्वाज्जक्षपञ्चकाच्च परस्य शितोऽनः पुस् स्यात् । अजक्षुः ४ । अजक्षीत् ५ । जजक्ष ६ । जक्ष्यात् ७ । जक्षिता ८ । जक्षिष्यति ९ । अजक्षिष्यत् १० । इति रुत्पञ्चकम् । दरिद्राक् दुर्गतौ । दरिद्राति ।
इर्दरिद्रः ॥ २२ ॥
दरिद्रो व्यञ्जनादौ शित्यवित्यात इः स्यात् । दरिद्रितः ।
नश्चातः ॥ २३ ॥
युक्तजक्षपश्चतः श्नश्च शित्यवित्यातो लुक् स्यात् । दरिद्रति दरिद्रासि १ । दरिद्रियात् २ | दरिद्रातु दरिद्रतात् दरिद्रिहि ३ । अदरिद्रात् अदरिद्रिताम्
दरिद्रः ४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org