SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ समासे बहुव्रीहिः । हस्त्यादिवर्जादुपमानात्पादस्य पात् । अघुट्स्वरादौ पदादेशश्चास्य । व्याघ्रपात् । व्याघ्रपदः पश्य । हस्त्यादिनिषेधात् हस्तिपादः । (सुसङ्ख्यात्*) सुपात् द्विपात् । ( वयसि दन्तस्य दतृः ) ऋकारो नोन्तार्थः । सुदन् द्विदन् बालः । (वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात्) कुन्दाग्रदन् । कुन्दाग्रदन्तः । शुद्धदन् शुद्धदन्तः । ( धनुषो धन्वन्* ) शार्ङ्गधन्वा । ( वा नाम्नि ) पुष्पधन्वा । पुष्पधनुः । ( जायाया जानि) भूजानिः । (स्त्रियामूधसोन्) कुण्डोनी गौः । ९५ इति बहुव्रीहिः । विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगपत्सदृक् संपत्साकल्यान्तेऽव्ययम् ॥ २२ ॥ एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः । विभक्त्यर्थः कारकम् । स्त्रीषु इति विग्रहे । ऐकार्थ्ये इति विभक्तिलोपः । प्रथमोक्तं प्राग्वत् ॥ २३ ॥ अत्र समासप्रकरणे प्रथमान्तेन सूत्रे यन्निर्दिष्टं तत्प्राक् स्यात् । इत्यव्ययस्य पूर्वभावः । अधिस्त्री इति भवति । द्वन्द्वैकत्वाव्ययीभावौ इत्यव्ययीभा For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy