SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९६ हैमलघुप्रक्रियाव्याकरणे वस्य क्लीबत्वात् ह्रस्वत्वम् । नामसंज्ञायां स्यादिः । अनतो लुप् ॥ २४ ॥ । अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् । अधिस्त्रि गृहकार्यम् । अमव्ययीभावस्यातोऽपञ्चम्याः॥२५॥ .. अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात् । न तु पञ्चम्याः। उपकुम्भमस्तिः पश्य देहि देशः। उपकुम्भादानय । (वा तृतीयायाः*) उपकुम्भं उपकुम्भेन कृतम् । (सप्तम्या वा*) उपकुम्भं उपकुम्भे निधेहि । मद्राणां समृद्धिः सुमद्रम् । विगता ऋद्धिय॒द्धिः । यवनानां व्यृद्धिदुर्यवनम् । अर्थाभावो धर्मिणोऽसत्त्वम् । मक्षिकाणामभावो निर्मक्षिकम् । अत्ययोऽतीतत्वम् । वर्षाणामत्ययोऽतिवर्षम्। असंप्रतीति वर्तमानकाले। उपभोगाद्यभावः। कम्बलस्यासंप्रति अतिकम्बलम् । रथस्य पश्चादनुरथं याति । ज्येष्ठस्य क्रमेणानुज्येष्ठं प्रविशन्तु । भद्रबाहोः ख्यातिरितिभद्रबाहु । अहोभद्रबाहु । चक्रेण युगपत्सचक्रं धेहि (अकालेऽव्ययीभावे सहस्य सः*) व्रतेन सदृक् सव्रतम् । ब्रह्मणः संपत् सब्रह्म साधूनाम् । तृणैः सह सकलं सतृणं भुते। पिण्डेषणापर्यन्तमिति सपिण्डेषणमधीते । अत्र सर्वत्राव्ययार्थप्राधान्यमित्यादि प्राग्वत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy