________________
समासेऽव्ययीभावः। योग्यतावीप्सार्थाऽनतिवृत्ति
सादृश्ये ॥ २६ ॥ एतदर्थानामव्ययानामव्ययीभावः स्यात् । रूपस्य योग्यमनुरूपम् । अर्थमर्थ प्रति प्रत्यर्थ समीक्ष्यते । शक्तिमनतिक्रम्य यथाशक्ति दत्ते । शीलस्य सादृश्यमिति सशीलमनयोः।
- यथाऽथा ॥ २७॥ थाप्रत्ययरहितमव्युत्पन्नं यथेत्यव्ययं नाम्ना समस्यते । यथारूपं चेष्टते । अथेति किम् । यथा चैत्रस्तथा मैत्रः। - यावदियत्वे ॥२८॥ इयत्त्वे गम्ये यावदिति समस्यते । यावत्यमत्राणि तावत इति यावदमत्रं श्राद्धान् भोजय ।
पर्यपाबहिरच् पञ्चम्या ॥ २९॥ पर्यादीनि पञ्च पञ्चम्यन्तेन समस्यन्ते । परि त्रिगर्तेभ्यः परित्रिगर्तम् । एवमपत्रिगर्तम् । बहिामम् । आग्रामम् । प्राग्यामं वृष्टो मेघः।
लक्षणेनाभिप्रत्याभिमुख्ये ॥३०॥ आभिमुख्ये वर्तमानौ अभिप्रती चिह्नवाचिना समस्येते । अभ्यग्नि प्रत्यंग्निं शलभाः पतन्ति । (दैर्येऽनुः*) अनुगङ्गं काशी । (समीपे*) अनुव
व्या. ९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org