________________
९८ . हैमलधुप्रक्रियाव्याकरणे नमशनिर्गता (तिष्ठग्वित्यादयः साधवः) तिष्ठद्गुः कालः।
नित्यं प्रतिनाऽल्पे ॥३१॥ अल्पेऽर्थे वर्तमानेन प्रतिना नित्यं समस्यते सोऽव्ययीभावः स्यात् । शाकस्याल्पत्वं शाकप्रति ।
पारेमध्येऽन्तः षष्ठया वा ॥ ३२॥ -- - एषां चतुर्णा पच्यन्तेन सहाव्ययीभावो वा स्यात् । गङ्गायाः पारे पारेगङ्गम् । मध्येगङ्गम् । अग्रवणम् । अन्तगिरि । निपातनादेत्वम् । पक्षे गङ्गापारम् । तत्रादायमिथस्तेनप्रहृत्येति सरूपेण
युद्धेऽव्ययीभावः ॥ ३३ ॥ - सप्तम्यन्तं मिथ आदायेति तृतीयान्तं च मिथः प्रहत्येति युद्धे वाच्ये सरूपेण नानाव्ययीभावः स्यात् ।
इच् युद्धे ॥ ३४॥ युद्धे यः समासस्तस्मादिच् समासान्तः स्यात् । ___ इच्यस्वरे दीर्घ आञ्च ॥ ३५॥
इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वमाञ्च स्याताम् । केशेषु केशेषु मिथो गृहीत्वा कृतं युद्धं केशाकेशि । मुष्टिभिर्मुष्टिभिर्मिथः प्रहृत्य कृतं युद्धं "मुष्टीमुष्टि। मुष्टामुष्टि। अखर इति किम् । अस्यसि।
M
Jain Education International
."
For:Personal & Private Use Only
www.jainelibrary.org