________________
हैमलघुप्रक्रियाव्याकरणे
आमः कगः ॥ ११६ ॥
आमः परादनुप्रयुक्तात्कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं स्यात्स चेदात्मनेपदाहस्तस्मात्तत्प्रयोज्यमन्यथा परस्मैपदमिति । एधांचक्रे । एधामास ६ । एधिषीष्ट एधिषीयास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधिषीय एधिपीवहि एधिषीमहि ७ । एधिता एधितारौ एधितारः । एधितासे एधितासाथै धिताध्वे । एधिताहे एधितास्वहे एधितास्महे ८ | एधिष्यते धिष्येते एधिष्यन्ते । एधिष्यसे एधिष्येथे एधिष्यध्वे । एधिष्ये एधिष्यावहे धिष्यामहे ९ । ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि १० । द्युति दीप्तौ । लघोरुपान्त्यस्येति गुणे द्योतते १ । द्योतेत २ । द्योतताम् ३ | अद्योतत ४ ।
द्युद्भ्योऽयतन्याम् ॥ ११७ ॥
द्युतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा स्यात् । अद्योतिष्ट । पक्षे ऌदिद्युतादिपुष्यादेः परस्मै इत्यङ् । अद्युतत् अद्योतिषाताम् अद्युतताम् अद्योतिषत-अद्युतन् । अद्योतिष्ठा :- अद्युतः अद्योतिषाथाम् अद्युततम् अद्योतिध्वम् अद्युतत। अद्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
१७२