SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । १७१ महे १ । एधेत एधेयाताम् एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एधेवहि एधेमहि २ । एधताम् एधेताम् एधन्ताम् । एधस्व एधेथाम् एधध्वम् । एधै एधावहै एधामहै ३ । स्वरादेस्ता स्विति वृद्धौ । ऐधत ऐधेताम् ऐधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् । ऐधे ऐधावहि ऐधामहि ४ । ऐधिष्ट ऐधिषाताम् । अनतोऽन्तोदात्मने ॥ ११३ ॥ अनतः परस्यात्मनेपदस्यान्तोऽत्स्यात् । ऐधिपत । ऐधिष्ठाः ऐधिषाथाम् । सोधि वा ॥ ११४ ॥ धातोर्घादौ प्रत्यये सो लुग्वा स्यात् । ऐधिध्वम् । पक्षे । नाम्यन्तस्थेति सिचः षत्वे, तस्य तृतीयस्तृतीय इति डत्वे, तवर्गश्चवर्गेति धस्य ढत्वे, ऐधिदम् । ऐधिषि ऐधिष्वहि ऐधिष्महि ५ । गुरुनाम्यादेरनृच्छ्रर्णोः ॥ ११५ ॥ गुरुर्नाम्यादिर्यस्य तस्माद्धातो ऋच्छ्रणुवत्परस्याः परोक्षाया आम् स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । अनुर्विपर्यासव्यवहितनिवृत्त्यर्थः । एधांबभूव एधांबभूवतुः एधांबभूवुः, इत्यादि प्राग्वत् । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy