________________
तद्धितेष्वपत्यत्वाधिकारः ।
नोर्म्यादिभ्यः ॥ ११२ ॥ एभ्यो मतोर्मो वो न स्यात् । ऊर्मिमान् । ( उदन्वान् जलाधारे * ) राजन्वान् सुराज्ञि ॥ ११३॥
सुराजकेऽर्थे राजन्वान् । संज्ञायां चर्मण्वत्यादयश्च साधवः । (नावादेरिकः*) नाविकः । मत्वन्तं च रूपं सर्वत्राधिकारादनुवर्तनीयम् । नौमान् । ( शिखादिभ्य इन्* ) शिखी माली (त्रीह्यादिभ्य इकेनौ * ) व्रीहिकः त्रीही ।
अतोऽनेकस्वरात् ॥ ११४ ॥ अदन्तादनेकस्वरादिकेनौ स्याताम् । धनिकः धनी । ( इलेनाणूशनरादयो यथायोगं मत्वर्थे वाच्याः * ) तुन्दिलः फेनिलः शृङ्गिणः ज्योत्स्नी प्राज्ञः श्राद्धः लोमशः पामनः मधुरम् मरुत्तः ।
नस्तं मत्वर्थे ॥११५॥
१३७
सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । मरुत्वान् । ( बलवातदन्तललाटादूलः * ) बलूलः । ( प्राण्यङ्गादातो लः * ) चूडालः । ( सिध्मादिक्षुद्रजन्तुरुग्भ्योऽपि ) । सिध्मलः यूकालः मूर्च्छालः । ( प्रज्ञापर्णोदकफेनालेलौ * ) प्रज्ञालः प्रज्ञिलः । ( वाचः आलाटौ क्षेपे ) वाचालः वाचाटः । ( वाचो ग्मिन् * ) वाग्मी । ( लक्ष्म्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org