SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३६ . हैमलघुप्रक्रियाव्याकरणे - त्रेस्तृ च ॥ १०६ ॥ त्रेस्तीयस्तृत्वं चास्य । तृतीयः। पूर्वमनेन सादेश्चेन् ॥ १०७ ॥ ___ द्वितीयान्तात्सपूर्वात्केवलाच्च पूर्वशब्दात्तृतीयार्थे इन् स्यात् । कृतं पूर्वमनेन कृतपूर्वी कटं । पीतपूर्वी पयः। इष्टादेः॥ १०८॥ - एभ्यः प्रथमान्तेभ्यस्तृतीयार्थे कर्तरि इन् स्यात् । इष्टो यज्ञोऽनेन इष्टी यज्ञे । अधीतस्तर्कोऽनेन अधीती तर्के। . तेन वित्ते चञ्चुचणौ ॥ १०९॥ तृतीयान्तात् ख्याते एतौ स्याताम् । विद्याचञ्चुः । केशचणः। तदस्याऽस्त्यस्मिन्निति मतुः ॥११०॥ प्रथमान्तात्षष्ठ्यर्थे सप्तम्यर्थे वा मतुः स्यात् । प्रथमान्तं चेदस्तीत्युच्यते। गावोऽस्य सन्ति गोमान्। मावर्णान्तोपान्त्यापश्चमवर्गा न्मतोर्मो वः ॥ १११॥ मावर्णी प्रत्येकमन्तोपान्त्यौ यस्य तस्मात्पञ्चमवर्जवर्गान्ताच मतोर्मो वः स्यात् । किमत्रास्तीति किंवान् वृक्षवान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy