________________
युष्मदस्मदोः प्रक्रिया । ६१ मनो वां नौ सदा भूयादृढं धर्मे जिनोदिते २। पक्षे जिनो युवां पात्वित्यादि।
अमा त्वामा ॥ १७ ॥ अमा सह पदात्परयोयुष्मदस्मदोस्त्वामा वा स्याताम् । धर्मस्त्वा पातु । त्वां पातु । धर्मो मा पातु । मां पातु ।
डेङसा तेसे ॥१८॥ डेन्डसूभ्यां सह पदापरयोर्युष्मदस्मदोस्तेमे वा स्याताम् । धर्मस्ते ददातु । धर्मो मे ददातु । मह्यं ददातु सुखम् । धर्मस्ते स्वम् । तव स्वम् । धर्मो मे स्वं । मम स्वम् । नित्यमन्वादेशे वस्नसादिः॥ १९ ॥
यूयं विनीतास्तद्वो गुरवो मानयन्ति । - असदिवामत्र्यं पूर्वम् ॥ २०॥
युष्मदस्मद्भ्यां पूर्व संबोधनमसदिव स्यात् ततो वस्नसादयो न स्युः । जना युष्मान्पातु धर्मः। क्वचिद्वा। जिनाः शरण्या वो युष्मान् वा सेवे। क्वचिन्न । साधो सुविहित त्वा सेवे।
पादाद्योः ॥ २१ ॥ नियतमात्राऽक्षरपिण्डः पादः । पादस्याऽऽदि. स्थयोर्युष्मदस्मदोर्वस्नसादिर्न स्यात् । वीरो विधे
व्या . . Jain Education International
.
For Personal & Private Use Only
www.jainelibrary.org