SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११२ हैमलघुप्रक्रियाव्याकरणे गादकामे*) कण्ठेकालः । उरसिलोमा । (कचिद्वा*) मनसिजः मनोजः। सरसिजं सरोजम् । वाचस्पत्यादयो निपात्याः । (समासे क्वचित्सकारनकारयोः षत्वणत्वे वक्तव्ये*) मातृष्वसा पितृवसा । निष्णः निष्णातः नदीष्णः । प्रष्ठोऽग्रगे । प्रस्थोऽन्यः । (निःसुवेः समसूतेः षः* ) निःषमः दुःषमा सुषमा । भ्रातुष्पुत्रकस्कादय एते साधवः। ( निष्प्रान्तःखदिरकार्यावशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो ण् ) निर्वणं प्रवणम् । द्वित्रिखरौषधिवृक्षेभ्यो न वाऽनि रिकादिभ्यः॥८४॥ द्वित्रिस्वरेभ्य इरिकादिवर्जेभ्यश्चौषधिवृक्षवाचिभ्यः परस्य वनस्य नस्य णो वा स्यात् । दूर्वावर्ण दूर्वावनम् । नीवारवणं नीवारवनम् । (गिरिनद्यादीनां वा*) गिरिणदी गिरिनदी । एवं क्षीरपाणं क्षीरपानम् । व्रीहिवापिणौ ब्रीहिवापिनौ । (ग्रामानान्नियः*) ग्रामणीः। पृषोदरादयःसाधवः। इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज. यमणिविरचितायां हैमलघुप्रक्रियायां समासप्रक्रिया समाप्ता। -17, N i r..... . .. ... . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy